बाल गङ्गाधर तिलक
From Wikipedia
बाल गङ्गाधर टिळक (१८५६-१९२०) भारतस्य प्रमुख स्वतन्त्रतासेनानी आसीत् । स लोके लोकमान्य: इति ख्यात:। तस्य जन्म महाराष्ट्रे रत्नगिरि जनपदस्य चिखली नामके ग्रामे अभवत् । स्वराज्यम् अस्माकं जन्मसिद्ध: अधिकार: इति भवत:
उद्घोष: आसीत् । टिळकमहोदय: गीताया:उपरि गीतारहस्यम् इति भाष्यम् अलिखत् । राष्ट्रस्य हिताय भवान् नैकवारं कारागारं असेवत। विविधानि कष्टानि च असहत् । स: द्वयो: वृत्तपत्रयो: सम्पादनं अकरोत् । स: अति परिश्रमी मेधावी च आसीत् ।